योऽसौ निरंजनो देवः परमात्मा सनातनः ।
स एव द्विजरूपेण ह्यवतीर्णो गजाननः ॥ १॥

गजाननः क्षेत्रवासी भृशुंडी वा परो ऋषिः।
अत्रागम्यानुगृहातु मामिदानीं दयानिधिः ॥ २॥

क्षेत्रज्ञरूपी भगवान् परमात्मा निरंजनः ।
करोतु पावनं क्षेत्रं मदीयं पादपांशुभिः॥ ३ ॥

मन्नं क्षुधार्तस्य तृषितस्य जलं यथा ।
तथा त्वदर्शनाकांक्षी सीदत्येको मुनीश्वरः ॥ ४॥

निरंजनस्य देवस्याशिषः संति दयालवः ।
तेषां मध्वमुनींद्रोऽस्मि अस्त्वेकोहि दयालवः ॥ ५॥

गजाननवरेण्यस्य संवादस्थलमद्भुतं ।
यत्र वैनायकं नाम तीर्थ कैवल्यदायकं ॥ ६

तत्क्षेत्रे गुरुणा दिव्यं स्वप्ने मद्यं प्रदर्शितं ।
यदुक्तं राजसदनं तदिदं च न संशयः ॥ ७ ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel