श्रीगणेशाय नम: ॥
योगं योगविदां विधूतविविधव्यासंगशुद्धाशयप्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।
आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं तं भूमानमुपास्महे परिणतं दंतावलास्यात्मना ॥ १ ॥
तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदुस्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाऽभ्यर्थ्यते ।
आमंत्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं स्वामिन्मे वशमानयेति सततं स्वाहादिभि: पूजित: ॥ २ ॥
कल्लोलांचलचुंबितांबुदतताविक्षुद्रवांभोनिधौ द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।
मूले कल्पतरोर्महामणिमये पीठेऽक्षरांभोरुहे षट्‌कोणा कलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३ ॥
चक्रप्रासरसालकामुकगदासद्वीजपूरं द्विज व्रीह्यग्रोत्पलपाशपंकजकरं शुण्डाग्रजाग्रद्‌घटम् ।
अश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्‌भूषया माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४ ॥
दानांभ:परिमेदुरप्रसृमख्यालंबिरोलंबभृत्सिंदूरारुणगण्डमण्डलयुगव्याजात्प्रशस्तिद्वयम् ।
त्रैलोक्येष्टविधानवर्णसुभगां य: पद्मरागोपमां धत्ते स श्रियमातनोतु सततं देवो गणानां पति: ॥ ५ ॥
भ्राम्यन्मंदरघूर्णनापरवशक्षीराब्धिवीचिच्छटासच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वकषा: ।
दिक्कांताघनसारचंदनरसासारा: श्रयंतां मन:स्वच्छंदप्रसरप्रलिप्तवियतो हेरंबदंतत्विष: ॥ ६ ॥
मुक्ताजालकरंबितप्रविकसन्माणिक्यपुंजच्छटाकांता: कंबुकदंबचुंबितवनाभोगप्रवालोपमा: ।
ज्योत्स्नापूरतरंगमंथरतरत्संध्यावयस्याश्चिरं हेरंबस्य जयंति दंताकिरणाकीर्णा: शरीरत्विष: ॥ ७ ॥
शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन्नानारत्नचयेन साधकजनान्संभावयन् कोटिश: ।
दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भवत्कर्णादोलनखेलनो विजयते देवो गणग्रामणी: ॥ ८ ॥
हेरंबं प्रणमामि यस्य पुरत: शांडिल्यमूले श्रिया विभ्रत्यांबुरुहे समं मधुरिपुस्ते शंखचक्रे वहन् ।
न्यग्रोधस्य तले सहाद्रिसुतया शंभुस्तथा दक्षिणे बिभ्राण: परशुं त्रिशूलमितया देव्या धरण्या सह ॥ ९ ॥
पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योपले बिभ्रत्यासममैक्षवं धनुरिषून्पौष्पान्वहन्पंच च ।
वामे चक्रगदाधर: स भगवान्क्रोडप्रियंगोस्तलं हस्तोद्यच्छुकशालिमंजरिकया देव्या धयण्या सह ॥ १० ॥
षट्‌कोणाश्रिषु षट्‌सु षड्‌गजमुखा: पाशांकुशाभीवरान्बिभ्राणा: प्रमदासखा: पृथुमहाशोणाश्मपुंजत्विष: ।
आमोद: पुरत: प्रमोदसुमुखौ तं चाभितो दुर्मुख: पश्चात्पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११ ॥
आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिता: कांताश्लेषरसज्ञमंथरदृश: सिद्धि: समृद्धिस्तत: ।
कांतिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते सान्या यापि मदद्रवा तदपरा द्राविण्यमू: पूजिता: ॥ १२ ॥
अश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ वर्षतौ वसु पार्श्वयोर्विलसतस्तौ शंखपद्मौ निधी ।
अंगान्यन्वथ मातरश्च परित: शक्रादयोऽब्जाश्रयास्तद्वाह्ये कुलिशादय: परिपतत्कालानलज्योतिष: ॥ १३ ॥
इत्थं विष्णुशिवादिसत्त्वतनवे श्रीवक्रतुंडाय हुंकाराक्षिप्तसमस्तदैत्यपृतनाव्राताय दीप्तत्विषे ।
आनंदैकरसावबोधलहरीविध्वस्तसर्वोर्मये सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नम: ॥ १४ ॥
सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटिकाटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् ।
राजन्नीराजनश्रीसखचरणनखद्योतिविद्योतमान: श्रेय: स्थेय: स देवान्मम विमलदृशो बन्धुरं सिंधुरास्य: ॥ १५ ॥
एतेन प्रगटरहस्यमंत्रमालागर्भेण स्फुटतरसंविदा स्तवेन । य: स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वंशवदा त्रिलोकी ॥ १६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रं समाप्तम् ॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel