श्रीगणेशाय नमः ।

कृतार्तदेववंदनं दिनेशवंशनंदनम् । सुशोभिभालनंदनं नमामि राममीश्‍वरम् ॥ १ ॥

मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् । महाधनुर्विदारकं नमाभि राममीश्‍वरम् ॥ २ ॥

स्वतातवाक्यकारिणं तपोवने विहारिणम् । करुषुचापधारिणं नमामि राममीश्‍वरम् ॥ ३ ॥

कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् । प्रविद्धकीशनायकं नमामि राममीश्‍वरम् ॥ ४ ॥

प्लवंगसंघसंमतिं निबद्धनिम्नगापतिम् । दशास्यवंशसंक्षतिं नमामि राममीश्‍वरम् ॥ ५ ॥

विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् । स्वबंधुशोककर्षणं नमामि राममीश्‍वरम् ॥ ६ ॥

गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् । कृतास्तमोहलक्षणं नमामि राममीश्‍वरम् ॥ ७ ॥

ह्रताखिलाचलाभरं स्वधामनीतनागरम् । जगत्तमोदिवाकरं नमामि राममीश्‍वरम् ॥ ८ ॥

इदं समाहितात्मना नरो रघूत्तमाष्टकम् । पठन्निरन्तरं भयं भवोद्भवं न विंदते ॥ ९ ॥

इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीरामाष्टकं संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel