श्रीगणेशाय नमः । ब्रहोवाच ।

वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्ह्रदि भाव्यम् ।

हेयाहेयद्वंद्वविहीनं परमेकं सत्तामात्रं सर्वह्रदिस्थं दृशिरूपम् ॥ १ ॥

प्राणापानौ निश्चयबुद्ध्या ह्रदि रुद्‌ध्वा छित्त्वा सर्वसंशयबंधं विषयौघान् ।

पश्यंतीशं यं गतमोहा यतयस्तं वंदे रामं रत्‍नकिरीटं रविभासम् ॥ २ ॥

मायातीतं माधवमाद्यं जगदादिं मायाधीशं मोहविनाशं मुनिवंद्यम् ।

योगिध्येयं योगविधानं परिपूर्णं वंदे रामं रञ्जितलोकं रमणीयम् ॥ ३ ॥

भावाऽभावप्रत्ययहीनं भवमुख्यैर्भोगासक्तैरर्चितपदांबुजयुग्मम् ।

नित्यं शुद्धं बुद्धमनंतं प्रणवाख्यं वंदे रामं वीरमशेषासुरदावम् ॥ ४ ॥

त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी ।

भक्त्या गम्यो भाविरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥ ५ ॥

त्वामाद्यंतं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् ।

भक्तिश्रद्धाभावसमेतैर्भजनीयं वंदे रामं सुन्दरमिन्दीवरनीलम् ॥ ६ ॥

को वा ज्ञातुं त्वामतिमानं गतमानं मानासक्तो माधवशक्तो मुनिमान्यम् ।

वृन्दारण्ये वंदितवृन्दाकरवृन्दं वंदे रामं भवमुखवन्द्यं सुखकंदम् ॥ ७ ॥

नानाशास्त्रैर्वेदकदंबैः प्रतिपाद्यं नित्यानंदं निर्विषयज्ञानमनादिम् ।

मत्सेवार्थं मानुषभावं प्रतिपन्नं वंदे रामं मरकतवर्णं मथुरेशम् ॥ ८ ॥

श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।

रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥ ९ ॥

इति श्रीमदध्यात्मरामायणे युद्धकाण्डे ब्रह्मदेवकृतं रामस्तोत्रं संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel