श्रीगणेशाय नम: ।

लक्ष्मीभर्तुर्भुजाग्रेकृतवसतिसितं यस्य रूपं विशालं नीलाद्रेस्तुंगश्रृंगस्थितमिव रजनीनाथबिम्बंविभाति ।

पायान्न:पाञ्चजन्य: स सकलदितिजत्रासनै: पूरयन्स्वैर्निध्वानैर्नीरदौघध्वनिपरिभवदैरंबरं कंबुराज: ॥ १ ॥

आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरय: कालमेतं ध्वांतस्यैकांतमंत यदपि च परमं सर्वधाम्नां च धाम ।

चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं शश्चन्नो विश्ववंद्यं वितरतु विपुलं सौख्यधर्मांशुशोभम् ॥ २ ॥

अव्यान्निर्घातघोरोहरिभुजपवनामर्शनाध्मातमूर्तेरस्मान्विस्मेरनेत्रत्रिदशनुतिवच: साधुकारै: सुतार: ।

सर्वं संहर्तुमिच्छोररिकुलभुवनंस्फारविस्फारनाद: संयत्कल्पांतसिंधौ शरसलिलघटावार्मुच: कार्मुकस्य ॥ ३ ॥

जीमूतश्यामभासा मुहुरपि भगवद्वाहुना मोहयंति युद्धेषूद्‌धूयमाना झटिति तडिदिवालक्ष्यते यस्य मूर्ति: ।

सोऽसित्रासाकुलाक्षत्रिदशरिपुवपु शोणितास्वाददृप्तो नित्यानंदाय भूयान्मधुमथनमनोनदको नदको न: ॥ ४ ॥

कम्राकारा मुरारे: करकमलतलेनानुरागाद् गृहीतसम्यग्वृत्तास्थिताग्रे सपदि न सहते दर्शने या परेषाम् ।

राजंती दैत्यजीवासवमदमुदितालोहितालेपनार्द्रा काम दीप्तांशुकांता प्रदिशतु दायतेवास्य कौमोदकी न: ॥ ५ ॥

यो विश्वप्राणभूतस्तनुरपि च हरेर्यान केतुस्वरूपो यं संचित्यैव सद्य: स्वमुरगवधूवर्गगर्भा: पतंति । चंचच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपंकाङिकतास्यं वंदे छंदोमयं तंखगपतिममलस्वर्णवर्णं सुपर्णम् ॥ ६ ॥

विष्णोर्विश्वेश्चरस्य प्रवरशयनकृत्सर्वलोकैकधर्तासोऽनंत:सर्पभूत: पृथुविमलयशा: सर्ववेदैश्च वेद्य: ।

पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसन: पापहंता सर्वज्ञ: सर्वसाक्षी सकलविषभयात्पातुभोगीश्वरो न: ॥ ७॥

वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां कारुण्यादै: कटाक्षै: सकृदपि पतित: संपद: स्यु: समग्रा: । कुंदेन्दुस्वच्छमंदस्मितमधुरमुखांभोरुहां सुंदरांगीं वंदे वंद्यामशेषैरपि मुरभिदुरो मंदिरामिंदिरां ताम् ॥ ८ ॥

या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो धत्ते या सत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् ।

धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिंविश्वशक्तिं विधात्रीं विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥ ९ ॥

येभ्योऽसूयद्भिरुच्चै: सपदि पदमुरुत्यज्यते दैत्यवर्गैर्येभ्यो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्ग: ॥

नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां न: पद्माक्षस्यांघ्रिपद्मद्वयतलनिलय: पांसव: पापपङ्कम् ॥ १० ॥

रेखालेखाभिवंद्याच्चरणतलगताश्चक्रमत्स्यादिरूपा: स्निग्धा: सूक्ष्मा: सुजाता मृदुललितरक्षौमसूत्रायमाणा: ।

दद्युर्नो मंगलानि भ्रमरभरजुषा कोमलेनाब्धिजाया: क्रमेणाम्रेडयमाना: किसलयमृदुना पाणिना चक्रपाणे : ॥ ११ ॥

यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदंडायमानादाश्च्योतंती बभासे सुरसरिदमला वैजयंतीवकांता ।

भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तंभशोभां दधान: पातामेतौ पयोजोदरललिततलौ पंकजाक्षस्य पादौ ॥ १२ ॥

आक्रामद्भयां त्रिलोकीमसुरसुरपती तत्क्षणादेवेनीतौ याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम ।

ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्यां चिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगत: पादपंकेरुहाभ्याम् ॥ १३ ॥

येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्त्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् ।

व्याप्ता विश्वंभरा यैरतिविततनोर्विश्वमूर्तेर्विराजो विष्णोस्तेभ्योमहद्भय: सततमपि नमोऽस्त्वङघ्रिपंकेरुहेभ्य: ॥ १४ ॥

विष्णो:पादद्वयाग्रेविमलनखमणिभ्राजिताराजते या राजीवस्येव रम्या हिमजलकणिकालंकृताग्रादलाली ।

अस्माकं विस्मयार्हाण्यखिलमुनिजन प्रार्थनीयानि सेयं दद्यादाद्यानवद्या ततिरतिरुचिर मंगलान्यंगुलीनाम् ॥ १५ ॥

यस्यां दृष्ट्‌वा मलायां प्रतिकृतिममरा: स्वां भवंत्यानमंत: सेन्द्रा: सांद्री कृतेर्ष्या: स्वपरसुरकुलाशंकयातंकवंत: ।

सा सद्य: सातिरेकां सकलसुखकरीं संपदं साधयेन्नश्चंचच्चार्वशुचक्राचरणनलिनयोश्चक्रपाणेर्नखाली ॥ १६ ॥

पापांभोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति ।

नम्रांगाणां हरेर्नो हरिदुपलमहाकूर्मसौंदर्यहारिच्छायं श्रेय:प्रदायि प्रपदयुगमिदं प्रापयेत्पापमंतम् ॥ १७ ॥

श्रीमत्यौ चारुवृत्ते करपरिमलनानंदह्रष्टे रमाया: सौदर्याढयेन्द्रनीलोपलरचितमहादंडयो: कांतिचौरे ।

सूरींद्रै: स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे जंघे नारायणीये मुहुरपि जयतामस्मदंहो हरंत्यौ ॥ १८ ॥

सम्यक् साह्यं विधातुं सममपि सततं जंघयो: खिन्नयोर्ये भारी भूतोरुदंडद्वयभरणकृतोत्तंभभावं भजेते ।

चित्तादर्श निधातुं महितमिवसतां ते समुद्‌गायमाने वृत्ताकारे विधत्तां ह्रदि मुदमजितस्यानिशं जानुनी न: ॥ १९ ॥

देवो भीतिं विधातु: सपदि विदधतौ कैटभाख्यं मधुं यावारोप्यारूढगर्वावधिजलधि ययोरेव दैत्यौ जघान ।

वृत्तावन्योन्यतुल्यौ चतुरमुपचयं विभ्रतावभ्रनीलावूरू चारू हरेस्तौ मुदमतिशयिनी मानसे नो विधत्ताम् ॥ २० ॥

पीतेन द्योतते यच्चतुरपरिहितेनांबरणात्युदारं जातालंकारयोगं जलमिव जलधेर्वाडवाग्निप्रभाभि: ।

एतत्पातित्यदान्नोजघनमतिघनादेनसो माननीयं सातत्येनैव चेतो विषयमवतरत्पातुपीतांबरस्य ॥ २१ ॥

यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङंग यथाब्धेर्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्य: ।

कांची सा कांचनाभामणिवरकिरणैरुल्लसद्भि: प्रदीप्ता कल्पां कल्याणदात्री मममतिमनिशं कम्ररूपांकरोति ॥ २२ ॥

उन्नम्रं कम्रमुच्चेरुपचितमुपनूद्यत्र पत्रैर्विचित्रै: पूर्व गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।

तस्मिन्नीलाश्मनीलैस्तरलरुचिजलै: पूरिते केलिबुद्धया नालोकाक्षस्य नाभिसरसि वसतु निश्चित्तहंसश्चिराय ॥ २३ ॥

पातालं यस्य नालं वलयमपि दिशां पत्रपंक्तिं नगेन्द्रान्विद्वांस: केसरालीर्विदुरिहविपुलां कर्णिकां स्वर्णशैलम् ।

भूयाद्‌गायत्स्वयं भूमधुकरभवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौर: ॥ २४ ॥

कांत्यंभ:पूरपूर्णे लसदसितवलीभंगभास्वत्तरंगे गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे । क्रीडत्वानद्धहेमोदरनलिनमहावाडवाग्निप्रभाढ्येकामंदामोदरीयोदरसलिलनिधौचित्तमत्स्यश्चिरं न: ॥ २५ ॥

नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला नीलवत्यती स्फुरति रुचिमती वक्रपद्मोन्मुखी या ।

रम्या सा रोमराजिर्महितरुचिमतीमध्यभागस्य विष्णोश्चित्तस्था मा विरेसीच्चिरतरमुचितां साधयंती श्रियं न: ॥ २६ ॥

आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पै: कल्पांते यस्य चांत: प्रविशति सकलं स्थावरं जंगमं च । अत्यंताऽचिंत्यमूर्तेश्चिरतरमजितस्यांतरिक्षस्वरूपे । तस्मिन्नस्माकमंत:करणमतिमुदा क्रीडतात्क्रोडभागे ॥ २७ ॥

संस्तीर्ण कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढयं श्रीवत्सोल्लासिफुल्लप्रतिवनवनमालांशुराजद्‌भुजांतम् ।

वक्ष: श्रीवृक्षकांतं मधुकरनिकरश्यामलं शार्ङ्गपाणे:संसाराध्वश्रमातैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥

कांत वक्षो नितांत विदधदिवगलं कालिमा कालशत्रोरिंदोर्बिबंयथाङको मधुप इव तरोर्मंजरीं राजते य: ।

श्रीमान्नित्यं विधेयादविरलमिलित: कौस्तुभश्रीप्रतानै: श्रीवत्स श्रीपते: स श्रियइव दयितो वत्स उच्चै: श्रियं न: ॥ २९ ॥

संभूयांभोधिमध्यात्सपदि सहजया य:श्रिया संनिधत्ते नीले नारायणोर: स्थलगगनतले हारतारोपसेव्ये ।

आशा: सर्वा: प्रकाशा विदधदपि दधच्चात्मभासान्यतेजांस्याश्चर्यस्याकरो नो द्युमणिरिवमणि: कौस्तुभ: सोऽस्तु भूत्यै ॥ ३० ॥

यावार्यावानुकूल्यात्सरति मणिरुचाभासमानासमाना साकं साकंपमंसे वसति विदधती वासुभद्रं सुभद्रम् ।

सारं सारंगसंधैर्मुखरितकुसुमा मेचकांता च कांता माला मालालितास्मान्नविरमतु सुखैयाजयन्ती जयंती ॥ ३१ ॥

हारस्योरुप्रभाभि: प्रतिवनवनमालांशुभि: प्रांशुभिर्यच्छ्रीभिश्चाप्यगदानां शबलितरुचिभिर्निष्कभाभिश्चभाति । बाहुल्येनैवबद्धांजलिपुटमजितस्याभियाचामहे तद्धन्धाति बाधतां नो बहुविहितकरो बंधुरं बाहुमूलम् ॥ ३२ ॥

विश्वत्राणैकदीक्षास्तदनुगुणगण -क्षत्रनिर्माण-दक्षा: कर्तारो दुर्निरूपा: स्फुट-गुरु यशसां कर्मणामद्‌भुतानाम् ।

शार्ङ्गबाणं मम ददतु हरेर्बाहवो मोहहानिम् ॥ ३३ ॥

कंठाकल्पोद्‍गतैर्य:कनकमयलसत्कुंडलोस्त्रैरुदारैरुद्दयोतै: कौस्तुभस्याप्युरुभिपचितश्चित्रवर्णो विभाति ।

कंठाश्लेषे रमाया: करबलयपदैर्मुद्रितेभद्ररूपे वैकुण्ठीयेऽत्र कण्ठे वसतु मम मति कुण्ठभावं विहाय ॥ ३४ ॥

पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभाग: काल काले च कंबुप्रवरशशधरापूरणे य: प्रवीण: ।

वक्राकाशांतरस्यास्तिरयति नितरां दन्ततारौधशोभां श्रीभर्तुदन्तवासो द्युमणिरघतमोनाशनायास्त्वसौ न: ॥ ३५ ॥

नित्यं स्नेहातिरकान्निजकमितुरलं विप्रयोगाक्षमाया वक्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजि:।

लक्ष्मीकांतस्य कांताकृतितिरतिविलसन्मुग्धमुक्ता फलश्रीर्दताली सन्ततं सा नतिनुतिनिरतानक्षतादक्षता न: ॥ ३६ ॥

ब्रह्मन्ब्रह्मण्यजिह्मां मतिमति कुरुषे देव संभावये त्वां शंभो शक्रं त्रिलोकीमवसिकिममरैर्नारदाद्या: सुखं व: ।

इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णो: प्रसन्नस्यास्येन्दोरास्त्रवंतीवरवचनसुधाह्लादयेन्मानसंन: ॥ ३७ ॥

कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्यन्माणिक्यश्रीप्रतानै : परिमिलितमलिश्यामलं कोमलं यत् । प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारेर्गाढामागामिनीं नो गमयतु विपदं गंडयोर्मडलं तत् ॥ ३८ ॥

वक्रांभोजे लसंतं मुहुरधरमणिं पक्वबिंबाभिरामं दृष्ट्‌वा दष्टुं शुकस्य स्फुटमवतरतस्तुडदंडायते न: ।

घोण: शोणीकृतात्मा श्रवणयुगलसत्कुंडलोलोस्त्रैर्मुरारै: प्राणाख्यस्यानिलस्य प्रसरणसरणि: प्राणदानाय न: स्यात् ॥ ३९ ॥

दिक्कालौ वेदयंतौ जगति मुहुरिमौ संचरंतौ रवींदू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूप मुनींद्रा: ।

अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्म नेत्रस्यनेत्रे ॥ ४० ॥

लक्ष्माकारालकालिस्फुरदलिकशशांकार्धसंदर्शमीलन्नेत्रांभोजप्रबोधोत्सुकनिभृततरालीनभृंगच्छदाभे । लक्ष्मीनाथास्यलक्ष्मीकृतविबुधगणापांगबाणासनार्धच्छाये नो भूतिभूरिप्रसवकुशलते भ्रूलते पालयेताम् ॥ ४१ ॥

पातात्पातालपातात्पतगपतिगतेभ्रूयुगं भुग्नमध्यं येनेषच्चालितेन स्वपदनियमिता: सासुरा देवसंघा ।

नृत्यल्लालाटरंगे रजनिकरतनोरर्धखंडावदाते कालव्यालद्वयं वा विलसति समयाबालिकामातरं न: ॥ ४२ ॥

रूक्षस्मारक्षु चापच्युतशरनिकरक्षीणलक्ष्मी कटाक्षप्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकेशानलिंगम् ।

भूयाद्‌भूपो विभूत्यै मम भुवनपतेर्भ्रूलता द्वंद्वमध्यादुत्थं तत्पुण्ड्रमूर्ध्व जनिमरणतम: खण्डनं मंडनं च ॥ ४३ ॥

पीठीभूतालकांते कृतमुकुटमहादेवलिंगप्रतिष्ठे ललाटेनाट्यरंगे विकटरतरतटे कैटभारेश्चिराय ।

प्रोद्धाटयैवात्मतंद्रीप्रकटपटकुटी प्रस्फुरंती स्फुटांगं पट्‌वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाट्येन्न: ॥ ४४ ॥

मालालीवालिधाम्न: कुवलयकलिता श्रीपते: कुंतलाली कालिंद्यारुह्य मूर्ध्नो गलति हरशिर: स्वर्धुनीस्पर्धयानु ।

राहुर्वा याति वक्रं सकलशशिकलाभ्रांतिलोलान्तरात्मा लोकैरालोच्यते या प्रदिशतु सकलै: साखिलं मंगलं न: ॥ ४५ ॥

सुप्ताकारा: प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपाव्याप्तव्योमांतरालास्तरलरुचिजरारंजिता: स्पष्टभास: ।

देहच्छायोद्‌गमाभा रिपुवपुरगुरुप्लोषरोषाग्नि धूम्या: केशा: केशिद्विषो नो विदधतु विपूलक्केशपाशप्रणाशम् ॥ ४६ ॥

यत्र प्रत्युप्तरत्नप्रवरपरिलसद्‌भूरिरोचि: प्रतानस्फूर्त्या मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्‌दुर्निरीक्ष्या ।

कुर्वत्पारंपयोभिज्वलदकृत महाभास्वदौर्वाग्निशंकां शश्वन्न: शमदिश्यात्कलिकलुषतम: पाटनं तत्किरीटम् ॥ ४७ ॥

भ्रांत्वा भ्रांत्वा यदंतस्त्रिभुवनगुरुरप्यब्दकोटीरनेका गंतुं नांतं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।

उन्मज्जन्नूर्जित श्रीस्त्रिभुवनमपरं निर्ममेतत्सदृक्षं देहांभोधि:स देयान्निरवधिरमृतं दैत्यविद्वेषिणो न: ॥ ४८ ॥

मत्स्य:कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्य काकुत्स्थ: कंसघाती मनसिजविजयी यश्च कल्की भविष्यन् ।

विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्था: पायासुर्मा ते एते गुरुतरकरुणाभारखिन्नाशया ये ॥ ४९ ॥

यस्माद्वाचो निवृत्ता: सममपि मनसा लक्षणामीक्षामाणा: स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादा: ।

नित्यानंदं स्वसंविन्निरवधिममतं स्वांतसंक्रांतबिंबच्छायापत्त्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो न: ॥५० ॥

आपादादा च शीर्ष्णोर्वपुरिदमनघं वैष्णवं य: सचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुषे सन्ततांत : प्रमोद: ।

जुह्वज्जिह्वाकृशानौ हरिचरितहवि: स्तोत्रमंत्रानुपाठैस्तत्पादांभोरुहाभ्यां सतततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ ५१ ॥

इति भगवत्पाद श्रीशंकराचार्यकृतं विष्णुपादादिकेशान्तवर्णनस्तोत्रं समाप्तम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel