श्रीगणेशाय नम: ॥ रत्‍नै: कल्पितमासनंहिमजलै: स्नानं च दिव्यांबर नानारत्‍नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचंपकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते ह्रत्कल्पितं गृह्यताम् ॥ १ ॥

सौवर्णे मणिखण्डरत्‍नरचिते पात्रं घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रंभाफलं पायसम् ।

शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदंग काहलकलागीतं च नृत्यं तथा ।

साष्टांग प्रणति: स्तुतिर्बहुविधा ह्येतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥

आत्मा त्वं गिरिजा मति: सहचरा: प्राणा: शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थित: ।

संचार: पदयो: प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४ ॥

करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।

विहितमविहितं वा सर्वमेतत्क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ ५ ॥

इति श्रीशिवमानसपूजा समाप्त ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel