सदा सद्योजातस्मितमधुरसास्वादपरया
भवान्या दृक्पातभ्रमरततिभिश्चुम्बितपुटम् ।
अपां पत्युः काष्ठां श्रितमधिकशीतं पशुपते-
र्मुखं सद्योजातं मम दुरितजातं व्यपनयेत् ॥१॥

जटान्तःस्वर्धुन्याश्शिशिरमुखवातैरवमतिं
गतं वामां रुष्टामनुनयसहस्रैः प्रशमितुम् ।
किरत्ज्योत्स्नं वामं नयनमगजानेत्रघटितं
दधद्वामं वक्त्रं हरतु मम कामं, पशुपतेः ॥२॥

गले घोरज्वालं गरलमपि गण्डूषसदृशं
निदाघान्ते, गर्जद्घनवदतिनीलं वहति यत् ।
निरस्तुं विश्वाघप्रचयमधितिष्ठद्यमदिशं
ह्यघोरं तद्वक्त्रं लघयतु मदं मे, पशुपतेः ॥३॥

पुमर्थानं पूर्तिं प्रणतशिरसां दातुमनिशं
जलाभावो माभूदिति शिरसि गङ्गां वहति यत् ।
सुरेशासास्फूर्तिं मुकुटशशिभासा किरति तत्
मुखं तत् पुंरूपं हरतु मम मोहं, पशुपतेः ॥४॥

रमेशो वागीशो दिवसरजनीशौ परशुदृक्
सुरेशो दैत्येशो निशिचरकुलेशोऽथ धनदः ।
यदूर्ध्वांशुव्रातैश्शिवचरितवन्तः परिणताः
तदैशानं वक्त्रं हरतु भवपाशं, पशुपतेः ॥५॥


पुरी पाशुपती धन्या चतुर्वर्ग- फलप्रदा ।
ज्योतीरूपं महालिङ्गं यत्राग्नौ तप्तकाञ्चनम् ॥
धन्या नैपालिका मर्त्याः तद्रूपं गोचरं विभुम् ।
पश्यन्ति येऽपि देवानां साक्षात्पुनरगोचरम् ।

संपूर्णे भारतेऽस्मिन्नपि वसु- भरिते भूशिरः- स्थानभूते
शश्वच्छान्त्यादि- केन्द्रे हिमगिरि- शिखरेऽभ्युत्तरेऽध्युत्तमेऽन्तः ।
पुण्ये नैसर्ग- रम्ये परगहन- वने सद्विचित्रे पवित्रे
क्षेत्रे नेपाल- संज्ञे लसति पशुपति- ज्योतिरात्मा चिदीशः ॥

पञ्चवक्त्रः।  पञ्चसङ्ख्याकानि वक्त्राणि मुखानि नानारूपाणि
यस्य स तथा ।
सद्योजात।
तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात् ॥
संवर्ताग्नि- तटित्प्रदीप्त- कनकप्रस्पर्धि - तेजोरुणां
गम्भीरध्वनि- सामवेदजनकं ताम्राधरं सुन्दरम् ।
अर्धेन्दुद्युति- लोल- पिंगल जटा भार- प्रबोद्धोदकं
वन्दे सिद्धसुरासुरेन्द्र- नमितं पूर्वं मुखं शूलिनः ॥

ॐ नमो भगवते' रुद्रा' य । पूर्वांग मुखाय नमः ॥

अ' घो' रे\"भ्योऽथ' घोरे\"भ्यो' घोरघोर' तरेभ्यः ।
सर्वे\"भ्यः सर्व' शर्वे\"भ्यो' नम' स्ते अस्तु रु' द्ररु' पेभ्यः ॥

कालाभ्र- भ्रमरांजन- द्युतिनिभं व्यावृत्तपिंगेक्षणं
कर्णोद्भासित- भोगिमस्तकमणि- प्रोद्भिन्नदंष्ट्रांकुरम् ।
सर्पप्रोतकपाल- शुक्तिशकल- व्याकीर्णताशेखरं
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्वनादोदयम् ॥

ॐ नमो भगवते' रुद्रा' य । दक्षिणांग मुखाय नमः ॥

स' द्योजा' तं प्र' पद्या' मि' स' द्यो जा' ताय' वै नमो' नमः ।
भ' वे भ' वे' नाति' भवे भवस्व' माम् । भ' वोद्भ' वाय' नमः ॥

प्रालेयाचलमिन्दुकुन्द- धवलं गोक्षीरफेनप्रभं
भस्माभ्यंगमनंगदेहदहन- ज्वालावलीलोचनम् ।
विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं
वन्देऽहं सकलं कलंकरहितं स्थाणोर्मुखं पश्चिमम् ॥

ॐ नमो भगवते' रुद्रा' य । पश्चिमांग मुखाय नमः ॥

वा' म' दे' वाय' नमो\" ज्येष्ठाय' नमः श्रे' ष्ठाय' नमो' रु' द्राय' नमः
काला' य' नमः कल' विकरणाय' नमो' बल' विकरणाय' नमो' बला' य' नमो'
बल' प्रमथनाय' नम' स्सर्व' भूतदमनाय' नमो' म' नो' न्म' नाय' नमः ॥

गौरं कुंकुम पंकितं सुतिलकं व्यापाण्डुमण्डस्थलं
भ्रूविक्षेप- कटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालंकृतं
वन्दे याजुष- वेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥

ॐ नमो भगवते' रुद्रा' य । उत्तरांग मुखाय नमः ॥

ईशानस्सर्व' विद्या' ना' मीश्वरः सर्व' भूता' नां
ब्रह्माधि' पति' र्ब्रह्म' णोधि' पति' र्ब्रह्मा' शि' वो
मे' अस्तु सदाशि' वोम् ॥

व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं
तस्मादुत्तर- तत्त्वमक्षरमिति ध्येयं सदा योगिभिः ।
ओंकारादि- समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं
वन्दे पंचममीश्वरस्य वदनं खव्यापि तेजोमयम् ॥

ॐ नमो भगवते' रुद्रा' य । ऊर्ध्वांग मुखाय नमः ॥

तानि च पञ्च मुखानि
ईशान- तत्पुरुषाघोर- वामदेव- सद्योजाताख्य- पञ्च-
ब्रह्मात्मकानि, तानि च पञ्चब्रह्माणि भूत- पञ्चक,
तन्मातृ- पञ्चक, कर्मेन्द्रिय- पञ्चक, ज्ञानेन्द्रिय- पञ्चक,
पुरुष- प्रकृति- बुद्ध्यहंकार मनोरूप- तत्त्व- पञ्चक,
निवृत्तिप्रतिष्ठाविद्याशान्ति, शान्त्यतीताख्य कला- पञ्चक,
ब्रह्मा, विष्णु, रुद्र, महेश्वर, सदाशिवाख्य- मूर्ति- पञ्चक,
शिवसादाख्य, मूर्तसादाख्य, मूर्तसादाख्य- कर्तृसादाख्य- कर्मसादाख्य
सादाख्य पञ्चकात्मकानीति शिवपुराणागमेषु प्रसिद्धम् ।


पशुपतिः - पशूनां ब्रह्मादीनां द्विपदां चतुष्पदां च पतिर्नायकः ।
`ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः ।
तेषां पतित्वाद्विश्वेशो भवः पशुपतिः स्मृतः ॥' इति पुराणम् ।
`सर्वदा यत्पशून्पाति तेषु यद्रमते पुनः ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥' इति महाभारतम् ।

भगवन्तं तमन्वेष्टुं यदा भागवतो ययौ ।
तमदृष्ट्वा तपस्तेपे हिमवच्छिखरे शुभे ॥
दृष्ट्वा तं शंभुरागत्य हास्यमुच्चैश्चकार ह ।
ततो नदी समुत्पन्ना ह्युन्नतात् गिरिगह्वरात् ॥
वचनान्मम दैत्येन्द्र बहिर्याता यतो नदी ।
अतोऽस्या वाङ्मती नाम भविष्यति न संशयः ।
प्रह्लाद गच्छ दैत्येन्द्र विष्णुभक्तिर्दृढाऽस्तु ते ॥


एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं
स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य
स्वयं सकलसंपन्निकेतात् स्वनिकेतात् पुलहाश्रमं प्रवव्राज ॥८॥
यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां
निजजनानां वात्सल्येन संनिधाप्यत इच्छारूपेण ॥९॥
यत्राश्रमपदान्युभयतोनाभीभिर्दृषच्चक्रैश्चक्रनदी नाम
सरित्प्रवरा सर्वतः पवित्रीकरोति ॥१०॥

निजनीवृदग्रहेतिखेदत्यजनेपालनृपालपूज्यपादः ।
स पुरो मम साधु सन्निधत्तां विफलाननदसदाशिवोऽप्रमत्तः ॥

नेपालादिनृपालमौलिविधृतश्रीशासन ।

अमितमुदमृतं मुहुर्दुहन्तीं
विमल- भवत्पद- गोष्ठमावस्न्तीम् ।
सदय पशुपते सु- पुण्य- पाकं
मम परिपालय भक्ति- धेनुमेकाम् ॥६८॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel