नमोऽस्तु ते हनूमते दयावते मनोगते
सुवर्णपर्वताकृते नभस्स्वतः सुताय ते ।
न चाञ्जनेय ते समो जगत्त्रये महामते
पराक्रमे वचःकमे समस्तसिद्धिसङ्क्रमे ॥१॥
रविं ग्रसिष्णुरुत्पतन् फलेच्छया शिशुर्भवान्
रवेर्गृहीतवानहो समस्तवेदशास्त्र्कम् ।
भवन्मनोज्ञभाषणं बभूव कर्णभूषणं
रघूत्तमस्य मानसांबुजस्य पूर्णतोषणम् ॥२॥
धरात्मजापतिं भवान् विभावयन् जगत्पतिं
जगाम रामदासतां समस्तलोकविश्रुताम् ।
विलङ्घ्य वारिधिं जवात् विलोक्य दीनजानकीं
दशाननस्य मानसं ददाह लङ्कया समम् ॥३॥
विलोक्य मातरं कृशां दशाननस्य तद्वने
भवानभाषत प्रियं मनोहरं च संस्कृतम् ।
समस्तदुष्टरक्षसां विनाशकालसूचनं
चकार रावणाग्रतः नयेन वा भयेन वा ॥४॥
महाबलो महाचलं समुह्य चौषधिप्रभं
भवान् ररक्ष लक्ष्मणं भयावहे  महावहे ।
महोपकारिणं तदा भवन्तमात्मबान्धवं
समस्तलोकबान्धवोऽप्यमन्यत स्वयं विभुः ॥५॥
भवांश्च यत्र यत्र तत् शृणोति रामकीर्तनं
करोति तत्र तत्र भोः सभाष्पमस्तकाञ्जलिं ।
प्रदेहि मेऽञ्जनासुत त्वदीयभक्तिवैभवं
विदेहि मे निरञ्जनं च रामदासदासताम् ॥६॥
अगण्यपुण्यवान् भवान् अनन्यधन्यजीवनः
विमुच्य मौक्तिकस्रजं ददौ धरात्मजा मुदा ।
भवन्तमालिलिङ्ग यद् रघूत्तमः स्वयं वदन्
इदं हि मे हनूमतः प्रदेयसर्वमित्यहो ॥७॥
विदेहराजनन्दिनीमनोहरे वरे परे
विदेहमुक्तिदायके विधेहि मे मनो हरे ।
क्षणं क्षणं निरीक्षणं भवेद् यथा मयि प्रभोः
तथा   निवेदयस्व मद्दशां दशाननान्तके ॥८॥
इदं च पञ्चचामरं गृहाण दासकल्पितं
समीरणात्मसंभव प्रमोदमानचेतसा ।
रिपून् षडान्तरान् विनाशयाशु दुर्दमान्
पुनर्भवाख्यकर्दमात् विमुच्य पाहि पाहि माम् ॥९॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel