। हनुमानुवाच ।
तिरश्चामपि यो राजा समवायं समीयुषाम् ।
तथा सुग्रीवमुख्यानां यस्तं वन्द्यं नमाम्यहम् ॥१॥
सकृदेव प्रसन्नाय विशिष्टायैव राज्यदः ।
विभीषणाय यो देवस्तं वीरं प्रणमाम्यहम् ॥२॥
यो महापुरुषो व्यापी महाब्धौ कृतसेतुकः ।
स्तुतो येन जटायुश्च महाविष्णुं नमाम्यहम् ॥३॥
तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः ।
प्रकाशते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ॥४॥
सर्वतोमुखता येन लीलया दर्शिता रणे ।
राक्षसेश्वरयोधानां तं वन्दे सर्वतोमुखम् ॥५॥
नृभावं तु प्रपन्नानां हिनस्ति च सदा रुजम् ।
नृसिंहतनुमप्राप्तो यस्तं नृसिंहं नमाम्यहम् ॥६॥
यस्माद्विभ्यति वातार्कज्वलनेन्द्राः समृत्यवः ।
भयं तनोति पापानां भीषणं तं नमाम्यहम् ॥७॥
परस्य योग्यतां वीक्ष्य हरते पापसन्ततिम् ।
पुरस्य योग्यतां वीक्ष्य तं भद्रं प्रणमाम्यहम् ॥८॥
यो मृत्युं निजदासानां मारयत्यतिचेष्टदः ।
तत्रापि निजदासार्थं मृत्युमृत्युं नमाम्यहम् ॥९॥
यत्पादपद्मप्रणतो भवत्युत्तमपुरुषः ।
तमीशं सर्वदेवानां नमनीयं नमाम्यहम् ॥१०॥
आत्मभावं समुत्क्षिप्य दास्यं चैव रघुत्तमम् ।
भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम् ॥११॥
नित्यं श्रीरामभक्तस्य किङ्करा यमकिङ्कराः ।
शिववत्यो दिशस्तस्य सिद्धयस्तस्य दासिकाः ॥१२॥
इदं हनुमता प्रोक्तं मन्त्रराजात्मकं स्तवम् ।
पठेदनुदिनं यस्तु स रामे भक्तिमान्भवेत् ॥१३॥
॥ इति हनुमत्कल्पे श्रीहनुमन्मन्त्रराजात्मकस्तवराजः सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel