विप्रपत्‍न्य ऊचुः ।
त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः । निर्गुणश्‍च निराकारः साकारः सगुणः स्वयम् ॥ १ ॥
साक्षिरूपश्‍च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥
सृष्टिस्थित्यंतविषये ये च देवास्त्रयः स्मृताः । त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ॥ ३ ॥
यस्य लोम्नां च विवरे चाखिले विश्वमीश्वर । महाविराण्महाविष्णुस्त्वं तस्य जनको विभो ॥ ४ ॥
तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः । वेदेऽनिर्वचनीयत्स्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ५ ॥
महदादिसृष्टिसूत्रं पंचतन्मात्रमेव च । बीज त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ६ ॥
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा । त्वमनीहः स्वयंज्योतिः सर्वानंदः सनातनः ॥ ७ ॥
अहो आकारहीनस्त्वं सर्वविग्रहवानपि । सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियो भवान् ॥ ८ ॥
सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे । जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम् ॥ ९ ॥
पार्वती कमला राधा सावित्री वेदसूरपि । वेदश्च जडतां याति के वा शक्ता विपश्चितः ॥ १० ॥
वयं किं स्वतनं कुर्मः स्त्रियः प्राणेश्वरेश्वर । प्रसन्नो भव नो देव दीनबंधो कृपां कुरु ॥ ११ ॥
इति पेतुश्च ता विप्रपत्‍न्यस्तच्चरणांबुजे । अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ॥ १२ ॥
विप्रपत्‍नीकृतं स्तोत्रं पूजाकाले च यः पठेत् । स गतिं विप्रपत्‍नीनां लभते नात्र संशयः ॥ १३ ॥
इति श्रीब्रह्मवैर्वर्ते महापुराणे कृष्णजन्मखंडे विप्रपत्‍नीकृष्णस्तोत्रं संपुर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel