त्वमतींद्रियमव्यक्तमक्षरं निर्गुणं विभुम् । ध्यानासाध्यं च सर्वेषां परमात्मानमीश्वरम् ॥ १ ॥
स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परम् । निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम् ॥ २ ॥
स्थूलात्स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनम् । स्थितं सर्वशरिरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥
शरीरवन्तं सगुणमशरीरं गुणोत्करम् । प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४ ॥
सर्वेशं सर्वरूपं च सर्वांतकरमव्ययम् । सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभुम् ॥ ५ ॥
अनन्तः स्तवनेऽशक्तोऽशक्ता देवी सरस्वती । यं वा स्तोतुमशक्तश्च पञ्चवक्त्रः षडाननः ॥ ६ ॥
चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा । गणेशो न समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ ७ ॥
ऋषयो देवताश्चैव मुनीन्द्रमनुमानवाः । स्वप्ने तेषामदृश्यं च त्वामेव किं स्तुवंति ते ॥ ८ ॥
श्रुतयः स्तवनेऽशक्ताः किं स्तुवंति विपश्चितः । विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥
वसुदेवकृतं स्तोत्र त्रिसंध्यं यं पठेन्नरः । भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणांबुजे ॥ १० ॥
पुत्रं विशिष्टं लभते हरिदासं गुणान्वितम् । संकटं निस्तरेत्तूर्णं शत्रुभीतेः प्रमुच्यते ॥ ११ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे वसुदेवकृतं कृष्णस्तोत्रं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel