ब्रह्मोवाच

कृष्णं वन्दे गुणातीतं गोविन्दमेकमक्षरम्
अव्यक्तमव्ययं व्यक्तं गोपवेषविधायिनम् ॥१॥

किशोरवयसं शान्तं गोपीकान्तं मनोहरम् ।
नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम् ॥२॥

वृन्दावनवनाभ्यर्णे रासमण्डलसंस्थितम् ।
रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् ॥३॥

इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।
नारायणेशौ संभाष्य स उवास तदाज्ञया ॥४॥

इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् ॥५॥

भक्तिभर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी ।
अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् ॥६॥

इति ब्रह्मावैवर्ते ब्रह्माकृतं श्रीकृष्णस्तोत्रम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel