महादेव उवाचः ।
ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च ।
मन्त्रेषु मन्त्रराजोऽयं महान् सप्तदशाक्षरः ॥१॥
सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुङ्गव ।
तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥२॥
तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् ।
सुवर्णानां च शतकं पुरश्चरणदक्षिणा ॥३॥
मन्त्रसिद्धस्य पुंसश्च विश्वं करतलं मुने ।
शक्तः पातुं समुद्रांश्च विश्वं संहर्त्तुमीश्वरः ।
पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः ॥४॥
तस्य संस्पर्शमात्रेण पादपङ्कजरेणुना ।
पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा ॥५॥
॥श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः समाप्तम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel