॥श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम्॥
यत्सन्दर्शनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य ।
तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥१॥
योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम् ।
भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि ॥२॥
यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम् ।
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम् ॥३॥
पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम् ।
परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥४॥
उन्मत्तवत्सञ्चरतीह शिष्यस्तवेति लोकस्य वचांसि शृण्वन् ।
खिद्युन्नुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥५॥
पञ्चकमेतद्भक्त्या श्लोकानां विरचितं लोके ।
यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥६॥

॥इति शृङ्गगिरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिभिः विरचितं श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रं सम्पूर्णम्॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel