शुद्धस्फटिकसंकाशं शुद्धविद्याप्रदायकम् ।
शुद्धं पूर्णं चिदानन्दं सदाशिवमहं श्रये ॥१॥
सीमातीतमनाद्यन्तं नामोच्चारणभेषजम् ।
कामिताशेषफलदं श्रीमद्विष्णुमहं श्रये ॥२॥
योगि हृत्पद्मनिलयं नतजीवहिते रतम् ।
श्रुतीनां जन्मभूमिं त्वां चतुर्मुखमहं श्रये ॥३॥
प्रसमाहितमत्यन्तं प्रथिमामिततेजसम् ।
वशीकृतपरानन्दं वसिष्ठं गुरुमाश्रये ॥४॥
शुक्तौ रूप्यमिवाभाति यद्रूपं मयि कल्पितम् ।
शक्त्या परि तं येन शक्तिं तं गुरुमाश्रये ॥५॥
करणातीतचिद्रूपं परिपूर्णं परायणम् ।
परमानन्दसंतुष्टं पराशरमहं श्रये ॥६॥
वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् ।
शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥७॥
त्रिकालातीतचिन्मात्रप्रशान्तस्वान्तसंयुतम् ।
विकाराद्यैरसंस्पृष्टं शुकं गुरुमहं श्रये ॥८॥
गूढा माया यस्य वाक्यैर्व्रीडिता विलयं गता ।
क्रीडन्तं विद्यया सार्धं गौडपादं तमाश्रये ॥९॥
जीवेशभेदरहितं नाविकं भववारिधेः ।
भावाभावविदूरस्थं गोविन्दं गुरुमाश्रये ॥१०॥
शङ्कारूपेण मच्चित्तं पङ्कीकृतमभूद्यया ।
किङ्करी यस्य सा माया शङ्कराचार्यमाश्रये ॥११॥
विश्वं मायामयत्वेन रूपितं यत्प्रबोधतः ।
विश्वं च यत्स्वरूपं तं वार्तिकाचार्यमाश्रये ॥१२॥
अनाद्यविद्यामुत्सार्य प्रज्ञानघनरूपताम् ।
यो बोधयति सच्छिष्यान् तं बोधघनमाश्रये ॥१३॥
सिताघनादिदृष्टान्तैर्यत्स्वरूपं श्रुतिर्जगौ ।
प्रज्ञानघन एवेति तं ज्ञानघनमाश्रये ॥१४॥
ज्ञानानामुत्तमं ज्ञानं ज्ञानिनामुत्तमो यतः ।
ज्ञानोत्तम इति ख्यातं गुरुं तमहमाश्रये ॥१५॥
ज्ञाननिश्रेणिमालम्ब्य ब्रह्माख्यं गिरिमुन्नतम् ।
आरुह्य कृतकृत्यो यस्तं ज्ञानगिरिमाश्रये ॥१६॥
दुर्वादिदुष्टमातङ्गविदारणपटीयसे ।
नमः श्रीसिंहगिरये गुरवे दिव्यचक्षुषे ॥१७॥
ईप्सितार्थप्रदो नित्यं प्रणतानां च देहिनाम् ।
यतिरीश्वरतीर्थाख्य: तं नमामि गुरुं शिवम् ॥१८॥
श्रुतिमस्तककूटस्थमज्ञानद्विपभेदिनम् ।
श्रीमन्त्रराजमूर्तिं तं नृसिंहं गुरुमाश्रये ॥१९॥
अविद्याच्छन्नभावानां नृणां विद्योपदेशतः ।
प्रकाशयति यस्तत्त्वं तं विद्यातीर्थमाश्रये ॥२०॥
अज्ञानां जाह्नवी तीर्थं विद्यातीर्थं विवेकिनाम् ।
सर्वेषां सुखदं तीर्थं भारतीतीर्थमाश्रये ॥२१॥
अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा ।
विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये ॥२२॥
विद्याविद्याविवेकेन पारं संसारवारिधेः ।
प्रापयत्यनिशं भक्तान् तं विद्यारण्यमाश्रये ॥२३॥
अविद्यारण्यसंक्लेशकृशानुभृशतापितः ।
संश्रये सततं भूत्यै चन्द्रशेखरचन्द्रिकाम् ॥२४॥
अविद्याख्यद्विपद्वैधीभावे दक्षं समाश्रये ।
नृसिंहभारतीशाख्यहरिं श्रुतिगुहाश्रयम् ॥२५॥
पुरुषोत्तमतां यान्ति यमाश्रित्य जनाः श्रये ।
क्षराक्षरमतीतं तं पुरुषोत्तमयोगिनम् ॥२६॥
किङ्करीकृतभूपालं पङ्केरुहसमाननम् ।
तं कारुण्यपयोराशिं शङ्कराख्यं गुरुं श्रये ॥२७॥
चन्द्रिकाधवलोदारसान्द्रकीर्तिच्छटाधरम् ।
इन्द्रियैर्दुर्जयं नौमि चन्द्रशेखरभारतीम् ॥२८॥
प्रसिद्धविद्यानिलयं लसमानगुणोत्कटम् ।
बिसजाक्षार्चकं भक्त्या नृसिंहं तीर्थमाश्रये ॥२९॥
पुरुहूतादिदेवौघपौरुषेयगुणोत्कटम् ।
पुरुषार्थप्रदं नौमि पुरुषोत्तमयोगिनम् ॥३०॥
कामद्विरदपञ्चास्यरामणीयकमन्दिरम् ।
सोमोपमाननं श्रीमद्रामचन्द्रगुरुं भजे ॥३१॥
सुरसिन्धुलसत्कीर्तिं स्मरसिन्धुघटोद्भवम् ।
नारसिंहार्चकं श्रीमन्नारसिंहयतिं भजे ॥३२॥
सारासारविवेकज्ञं मारकाननकुञ्जरम् ।
शूरं दाने च निरतं नारसिंहयतिं भजे ॥३३॥
नृसिंहतां प्रयान्त्याशु यमाश्रित्य जना भुवि ।
नृसिंहभारतीं वन्दे द्विगुणोपपदं सदा ॥३४॥
तं सर्वभूताभयदं विभवैरन्वितं परम् ।
नारसिंहं गुरुं चापि नवं ज्ञानार्णवं भजे ॥३५॥
सत्यस्वरूपं सद्ज्ञाननिष्ठं साक्षाच्छिवं परम् ।
सदा दानरतं दान्तं सच्चिदानन्दमाश्रये ॥३६॥
महामेरुसमं धैर्ये माधुर्येऽप्यमृतोपमम् ।
ऊहापोहार्थनिष्णातं नारसिंहं गुरुं भजे ॥३७॥
सच्चित्ताम्बुजमित्राय सच्चरित्रयुजे नमः ।
सच्चिदानन्दभारत्यै सच्चिदानन्दमूर्तये ॥३८॥
सच्चिदनन्दभारत्यै नव्यायास्तु नमोऽनिशम् ।
भव्यात्मज्ञाननिर्धूताविद्याकार्योपलब्धये ॥३९॥
मारमातङ्गपञ्चास्यं मदसर्पद्विजर्षभम् ।
नृसिंहभारतीं वन्दे जिताक्षतुरगं सदा ॥४०॥
तत्त्वमस्यादिवेदान्तवाक्यार्थज्ञानवारिधेः ।
पूर्णचन्द्रमसं वन्दे सच्चिदानन्दयोगिनम् ॥४१॥
अभिनवपदपूर्वान् सच्चिदानन्दसंज्ञान्
निगमशिखरवेद्यान् नित्यकल्याणरूपान् ।
त्रिभुवनजनवन्द्यान् सर्वलोकैक द्यान्
हृदय कमलमध्ये भावयाम्यम्बुजास्यान् ॥४२॥
प्रह्लादवरदो देवो यो नृसिंहः परो हरिः ।
नृसिंहोपासकं नित्यं तं नृसिंहगुरुं भजे ॥४३॥
श्रीसच्चिदानन्दशिवाभिनव्यनृसिंहभारत्यभिधान् यतीन्द्रान् ।
विद्यानिधीन् मन्त्रनिधीन् सदात्मनिष्ठान् भजे मानवशंभुरूपान्द्र्यद्र्य ॥४४॥
सदात्मध्याननिरतं विषयेभ्यः पराङमुखम् ।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम् ॥४५॥
विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् ।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥४६॥
विद्यारण्यादियोगीन्द्राधिष्ठितं पीठमुत्तमम् ।
अलङ्कुर्वाणमधुना भारतीतीर्थमाश्रये ॥४७॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वर: ।
गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥४८॥

॥ इति श्रीगुरुपरम्परास्तोत्रं संपूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel