अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ।१।
प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय ।२।
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धरायै ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ।३।
कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय ।
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ।४।
पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय ।
कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय ।५।
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ।६।
प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय ।
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ।७।
अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्षु ।
सर्वं गतायै सकलं गताय नमः शिवायै च नमः शिवाय ।८।
अर्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् ।
यः पठेच्छृणुयाद्वापि शिवलोके महीयते ।९॥
इति उपमन्युकृतं अर्धनारीश्वराष्टकम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel