निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥१॥
त्रिशूलमुण्डधारिणीं धराविघातहारिणीम् ।
गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥२॥
दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम् ।
वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम् ॥३॥
लसत्सुलोललोचनां लतासदेवरप्रदाम् ।
कपालशूलधारिणीं भजामि विन्ध्यवासिनीम् ॥४॥
करो मुदा गदाधरो शिवां शिवप्रदायिनीम् ।
वरावराननां शुभां भजामि विन्ध्यवासिनीम् ॥५॥
ऋषीन्द्रजामिनिप्रदां त्रिधास्यरूपधारिणीम् ।
जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ॥६॥
विशिष्टसृष्टिकारिणीं विशालरूपधारिणीम् ।
महोदरे विशालिनीं भजामि विन्ध्यवासिनीम् ॥७॥
पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् ।
विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम् ॥८॥
॥इति विन्ध्येश्वरीस्तोत्रं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel