श्रीगुरुराजस्तवः ।
श्रीसद्‍गुरवे नमः ॥
सद्‌गुरुं भज सद्‌गुरुं भज सद्‌गुरुं भज वुद्धिमन् येन संसृतिपारमेष्यसि मुक्त इत्यपि गास्यसे ॥
आसुरीं त्यज संपदं विपदां पदं मुनिगर्हितां तर्हि तां भज संपदं मुनिसंस्तुतां भगवत्प्रियाम् ॥१॥
गर्वपर्वतमस्तके तव संस्थितिर्नहि शोभते पातमेण्यसि घातकर्मणि युज्यसे नतु पूज्यसे ॥
सात्त्विकं फलमश्‍नुषे यदि सत्यवृत्तपरायणो दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥२॥
दंभमार्गपरायणं यदि सत्फलाय भवत्यहो इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् ॥
कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चांतरे मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥३॥
भुक्तताऽपि मुमुक्षुता कपटौघमूलनिकृंतनी नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् ॥
केषु ते गणना भवेद्वद विद्यवेद्यसमांतरे भासुरं जनजन्म कर्म निरर्थकं कुरुषे कुतः ॥४॥
साधुचित्तविखंडनाद्भगवत्प्रियावपि दानवौ तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्तकौ ॥
तेन हीनबलावथो नृपनामदूषकराक्षसौ कृष्णहिंसनतत्पराविति कर्मणो गहना गतिः ॥५॥
ब्रह्मनिष्ठविमाननान्निजसूनुगीतहरेः पदे द्वेष आविरभूद्भवग्रहमांत्रिके निजसेविते ॥
दानवस्य च दानधर्मपरायणस्य च रक्षसः शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥६॥
जीवतामपहापयञ्छिवतां दिशत्यतिकौशलात् पूर्ववत्स्थितविश्वमेष तिरःकरोत्यति लीलया ॥
तं गुरुं भज नम्रमोचनकारकं भवतारकं तत्र शात्रवमत्र यच्छति वृक्षतां पितृकानने ॥७॥
श्रीगुरौः पदपंकजं भजतां सतां सततं हरिः संनिधाविति सर्वशासनसारमेतदुदीरितम् ॥
तन्महत्त्वमहांबुधेरपरं तटं न हि केचन प्राप्नुवन्ति परावरज्ञाः पंडिताः सनकादयः ॥८॥
शब्दमूलमहो गुरुः शिवजीवविश्वभिदास्पदं विश्वजीवशिवादिनामत एष एव हि बुध्यते ॥
वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं लक्ष्यभूतवपुर्गुरुस्तमु जानते न हि कश्चन ॥९॥
वृत्त्यनाश्रितचित्स्वरूपकं एष एव समः प्रभो वृत्तिरूढचिदंबरं खलु जीव ईश इदं जगत् ॥
जन्ममृत्युनियामकः परमेश्वरः स तु भोगभुग्जन्ममृत्युनिवारकः परमेश्वरादतिरिच्यते ॥१०॥
ब्रह्मरन्ध्रपदं गुरोर्ह्रदयं शिवस्य निजास्पदं स्थानमेव हि तत्स्वरूपविनिर्णयाय भवत्फलम् ॥
ह्रद्यतो विषयान्भजत्यथ नैव किंचन रंध्रगो यच्छति क्रमतः फलं वद मुक्तिदोऽस्त्यनयोस्तु कः ॥११॥
तत्स्वरूपविमर्शनं गुरुपादुकामनुसंशितं तन्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते ॥
लाभतो गुरुणा सहैक्यविमर्शनं परमं पदं तत्र मुक्तिवरांगना वृणुते स्वयं निजसंपदा ॥१२॥
तत्र यो विमुखो नरो निजघातकीति निगद्यते तस्य संमुखतां भजन् परमद्वयं भवति क्षणात् ॥
ऋक्‌श्रुतिः शतधारमित्यपि नौति तां गुरुपादुका कृष्णभिक्षुरिमं स्तवं पदपंकजेऽर्पयते गुरोः ॥१३॥
द्रोणपर्वतवासिने नतशासिने मतिकाशिने हारिणे विपदां मुहुर्मम दायिनेऽखिलसंपदाम् ॥
सच्चिदादिसुकाभिधाय यतीश्वराय सहस्त्रशः संतु मे नतयो दयोदकसागराय दिने दिने ॥१४॥
स्तोत्रमेतदभीष्टसिद्धिदमासुरव्रतहारकं तारकं निजदेशिकेंद्रपदाब्जयोर्दृढसन्मतेः ॥
यः पठेत्प्रयतः शुचिः सुविचार्य भूरि दिने दिने मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥१५॥
इति श्रीमत्कृष्णानन्दसरस्वतीकृतगुरुराजस्तवः सम्पूर्णः
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel