श्रीगणेशाय नमः ॥
हरिः ॐ भद्रकर्णेभिः श्रृणुयामदेवाभद्रंपश्येमाक्षभिर्जयत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यश्येम देवहितं यदायुः ॥ भद्रंकर्णेभिरितिशांतिः ॥ ॐ चिन्मयं व्यापितं सर्वं आकाशं जगदीश्वरम् ॥ निर्विकल्पं स्वयं ब्रह्मा तस्याहं पंचमाश्रमम् ॥१॥
निराकारं निराभासं निरालंबं निरंजनम् ॥ निःशब्द उच्यते ब्रह्म तस्याहं पंचमाश्रमम् ॥२॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतीश्वराः ॥ आश्रमाणां विभिन्नोहं तस्याहं पंचमाश्रमम् ॥३॥
आश्रमाणां च सर्वेषां अस्ति नास्ति न चात्मनि ॥ भिन्नाभिन्नं नपश्यंति तस्याहं पंचमाश्रमम् ॥४॥
आब्रह्मस्तंभपर्यंतं संपूर्णं परमात्मनः ॥ भिन्नाभिन्नं नपश्यंति तस्याहं पंचमाश्रमम् ॥५॥
मनस्यं मनमध्यस्थं मनमायाविवर्जितम ॥ मनसा मन आलोक्य तस्याहं पंचमाश्रमम् ॥६॥
अगोचरं चैकब्रह्म तस्यदेहे विलीयते ॥निवर्तते क्रियाः सर्वास्तस्याहं पंचमाश्रम् ॥७॥
निरालंबपदं प्राप्तं यत्र ज्योतिर्लयं गतः ॥ निवर्तंते क्रियाः सर्वास्तस्याहं पंचमाश्रमम् ॥८॥
स्वयं दाता स्वयं भोक्ता स्वयं देवो महेश्वरः ॥ निर्विकल्पे स्वयं ब्रह्म तस्याहं पंचमाश्रमम् ॥९॥
क्कचिद्योगि क्कचिद्भोगी क्कचिद्नग्नःपिशाचवत् ॥ स्वयमात्मस्वरूपेण तस्याहं पंचमाश्रमम् ॥१०॥
अभिन्नमात्मनोरूपं जगदेतच्चराचरम् निर्विकल्पं स्वयं ब्रह्म तस्याहं पंचमाश्रमम् ॥११॥
आत्मज्ञानं विना योगी ब्रह्मचारी कथं भवेत् ॥ गृही वा वानप्रस्थो वा यतिर्योगं विना नहि ॥१२॥
ॐ भद्रंकर्णेभिः श्रृणुयामदेवाभद्रंपश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यश्येम देवहितं यदायुः ॥ स्वस्तिनऽइंद्रावृद्धःश्रवाः ॥ ॐ शांतिः शांतिः शांतिः ॥
॥ इति श्रीदत्तोपनिषत् पूर्वतापिनी समाप्तः ॥१४॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel