श्रीदत्तात्रेयाय नमः ॥
आदौ ब्रह्ममुनीश्वरं हरिहरं सत्वं - रजस्तामसम् ब्रह्मांडं च त्रिलोकपावनकरं तैमूर्तिरक्षाकरम् ॥ भक्तानामभयार्थरूपसहितं सोहं स्वयं भावयन्सोहं दत्तदिगंबरं वसतु मे चित्ते महत्सुंदरम् ॥१॥
विश्वं विष्णुमयं स्वयं शिवमयं ब्रह्मामुनींद्रामयं ब्रह्मेंद्रादिसुरोगणार्चितमयं सत्य समुद्रामयम् ॥ सप्तं लोकमय़ं स्वयं जनमयम् मध्यादिवृक्षामयं सोहं दत्तदिगंबरं वसतु मे चित्ते महत्सुंदरम् ॥२॥
आदित्यादिग्रहा स्वधाऋषिगणं वेदोक्तमार्गे स्वयं वेदं शास्त्र - पुराणपुण्यकथितं ज्योतिस्वरूपं शिवम् ॥ एवं शास्त्रस्वरूपया त्रयगुणैस्त्रैलोक्यरक्षाकरं सोहं दत्तदिगंबरं वसतु मे० ॥३॥
उत्पत्ति - स्थिति - नाशकारणकरं कैवल्यमोक्षाकरं कैलासादिनिवासिनं शशिधरं रुद्राक्षमालागळम् ॥ हस्ते चप - धनुःशराश्च मुसलं खट्वांगचर्माधरं सोहं दत्तदिगंबरं वस्तु मे० ॥४॥
शुद्धं चित्तमयं सुवर्णमयदं बुद्धिं प्रकाशमयं भोग्यंभोगमयं निराहतमयं मुक्तिप्रसन्नामयम् ॥ दत्तं दत्तमयं दिगंबरमयं ब्रह्मांडसाक्षात्करं सोहं दत्तदिगंबरं वसतु मे० ॥५॥
सोहंरूपमयं परात्परमयं निःसगनिर्लिप्तकं नित्यं शुद्धनिरंजनं निजगुरुं नित्योत्सवं मंगलम् ॥ सत्यं ज्ञानमनंतब्रह्महृदयं व्याप्तं परोदैवतं सोहं दत्तदिगंबरं वसतु मे० ॥६॥
काषायं करदंडधारं पुरुषं रुद्राक्षमालागलं भस्मोत्धूलितलोचनं कमलजं कोल्हापुरीभिक्षणम् ॥ काशीस्नानजपादिकं यतिगुरुं तन्माहुरीवासितं सोहं दत्तदिगंबरं वसतु मे०॥७॥
कृष्णातीरनिवासिनं निजपदं भक्तार्थासिद्धिप्रदं मुक्तिं दत्तदिगंबरं यतिगुरुं नास्तीति लोकांजनम् ॥ सत्यं सत्यमसत्यलोकमहिमा - प्राप्तव्यभाग्योदयं सोहं दत्तदिगंबरं वसतु मे चित्ते महत्सुंदरम् ॥८॥
॥ इति श्रीशंकराचार्यकृतं दत्ताष्टकं संपूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel