भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ॥
दूरादेव पलायन्ते दत्तात्रेयं नमामि तं ॥१॥

यन्नमस्मरणाद्-दैन्यं पापं तापश्च नश्यति ॥
भीतिग्रहर्तिदु:स्वप्नं दत्तात्रेयं नमामि तं ॥२॥

दद्रुस्फोटककुष्ठादि महामारी विषूचिका ॥
नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तं ॥३॥

संगजा देशकालोत्था अपि सांक्रमिका गदा: ॥
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तं ॥४॥

सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम ॥
यन्नाम शान्तिदं शीघं दत्तात्रेयं नमामि तं ॥५॥

त्रिविधोत्पातशमनं विविधारिष्टनाशनम ॥
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तं ॥६॥

वैयादिकृतम्न्त्रादिप्रयोगा यस्य कीर्तनात ॥
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तं ॥७॥

यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ॥
य ईश: सर्वतस्त्राता दत्तात्रेयं नमामि तं ॥८॥

जयलाभयशःकामदातुर्दत्तस्य यः स्तवम ॥
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत ॥९॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तस्तवस्तोत्रं संपूर्णम ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel