ओङ्कारपंजरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् ।
आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥१॥
दयमानदीर्घनयनां देशकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां संगीतमातृकां वन्दे ॥२॥
श्यामतनुसौकुमार्यां सौन्दर्यानन्द सम्पदुन्मेषाम् ।
तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥३॥
नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् ।
मुखमम्ब मोदयतु मां मुक्ताताटंकमुग्धहसितं ते ॥४॥
सरिगमपधनिरतां तां वीणासंक्रांतकांतहस्तां ताम् ।
शांतां मृदुलस्वांतां कुचभरतान्तां नमामि शिवकांताम् ॥५॥
अवटुतटघटितचूलीताडिततालीपलाशताटंकाम् ।
वीणावादनवेलाऽकम्पितशिरसां नमामि मातङ्गीम् ॥६॥
वीणारवानुषङ्गं विकचमुखाम्बोजमाधुरीभृन्ङ्गीम् ।
करुणापूरतरङ्गं कलये मातङ्गकन्यकापांगम् ॥७॥
मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् ।
यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभव भृङ्गीम् ॥८॥
मेचकमासेचनकं मिथ्यादृष्टान्तमध्यभागं ते ।
मातस्तव स्वरूपं मंगलसंगीतसौरभं मन्ये ॥९॥
॥इति श्यामलानवरत्नमालिकास्तोत्रं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel